MP Board Class 8th Sanskrit Essay म.प्र. बोर्ड कक्षा 8th संस्कृत निबन्ध-रचना

MP Board Class 8th Sanskrit निबन्ध-रचना

(1) उद्यानम्

(1) उद्यानम् अत्यन्तं रमणीयम् भवति।

(2) उद्याने वृक्षाः रोहन्ति ।

(3) वृक्षाः पर्णैः, पुष्प, फलैः च शोभन्ते ।

(4) बालकाः उद्याने क्रीडन्ति।

(5) उद्याने तडागः अपि अस्ति।

(6) जनाःउद्याने भ्रमणार्थं गच्छन्ति।

(7) खगाः वृक्षेषुः निवसन्ति।

(8) तत्र ते नीडान् रचयन्ति।

(9) प्रभाते खगानां कूजनम् मनोहरम् भवति।

(10) वर्तमानकाले वृक्षारोपणकार्य तीव्रगत्या प्रसरति ।

(2) विद्यालयः

(1) मम विद्यालयः ‘गुराडियामाता’ ग्रामे स्थितः अस्ति।

(2) विद्यालयस्य भवनम् अतीवसुन्दरम् अस्ति।

(3) अहम्प्रतिदिनं विद्यालयं गच्छामि।

(4) अहं विद्यालयं गत्वा गुरुन्प्रणमामि ।

(5) गुरवः स्नेहेन पठम् पाठयन्ति ।

(6) विद्यालये एकम् उद्यानम् अपि अस्ति।

(7) विद्यालये एकः पुस्तकालयः अस्ति।

(8) विद्यालये एक विशालं क्रीडाक्षेत्रम् अस्ति।

(9) तत्र छात्राः क्रीडन्ति।

(10) विद्यालय: मह्यम् अतीव रोचते।

(3) धेनुः

(1) धेनुः अस्माकम् माता अस्ति।

(2) धेनोः चत्वारःपादाः, द्वे शृङ्गे, एकं लाशूलं च भवति।

(3) धेनूनां विविधाः वर्णाः भवन्ति।

(4) धेनुः तृणानि भक्षयति।

(5) धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति।

(6) गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति।

(7) धेनोः दुग्धेन दधि, तक्रम, नवनीतम्, घृतम् च निर्मितम् भवति

(8) भारतीयसंस्कृतौ धेनूनाम् महत्त्वम्अ धिकम् अस्ति।

(9) धेनो: दुग्धम् मधुरम्, पथ्यम् हितकारि च भवति।

(10) वयं धेनुम् मातृरूपेण पूजयामः।

(4) मम कर्त्तव्यम्

(1) लोकहितं मम कर्त्तव्यम्।

(2) देशसेवां करणं ममकर्त्तव्यम्।

(3) सर्वजनसम्मानं मम कर्त्तव्यम्

(4) सर्वजनहितं मम कर्त्तव्यम्।

(5) समयेन विद्यालयगमनं मम कर्त्तव्यम्।

(6) सर्वैः सह मधुरभाषणं मम कर्त्तव्यम्।

(7) राष्ट्रध्वजसम्मानं मम कर्त्तव्यम्।

(8) राष्ट्रगानसम्मानं मम कर्त्तव्यम्।

(9) ध्यानेन पठनम् मम कर्त्तव्यम्।

(10) गुरुजनसम्मानं मम कर्त्तव्यम्।

(5) पुस्तकम्

(1) पुस्तकानि मह्यम् अतीव रोचन्ते।

(2) मम समीपे बहूनिपुस्तकानि सन्ति।

(3) पुस्तकानि अतीव मनोहराणि सन्ति ।

(4) मम समीपे चित्रपुस्तकम् अपि अस्ति।

(5) रमणीयं चित्रं चित्तम् आनन्दयति।

(6) पुस्तकानि ज्ञानस्य भण्डारः भवन्ति ।

(7) पुस्तकानि अस्माकं मित्राणि सन्ति ।

(8) पुस्तकानां सङ्गतिः लाभप्रदा भवति।

(9) अस्माभिः पुस्तकानि रक्षणीयानि।

(10) स्वगृहे लघुः पुस्तकालयो निर्मातव्यः।

(6) अनुशासनम्

(1) मानव जीवने अनुशासनस्य विशेष महत्त्वम् अस्ति।

(2) अनुशासनम् विना जीवनं कष्टमयं भवति।

(3) समाजे नियमानाम् पालनम् एष अनुशासनं भवति।

(4) अनुशासनं विना कोऽपि कार्य सफलं न भवति।

(5) सामाजिकम् परिवारिकम्च व्यवस्थायै अनुशासनम् परमावश्यकम् अस्ति।

(6) राष्ट्रस्य प्रगतये अपि अनुशासनम् अत्यावश्यकम् अस्ति।

(7) मानवतायाः विकासाया छात्रेषु अनुशासनम् अनिवार्यम् अस्ति।

(8) प्रकृतिः अपि ईश्वरस्य अनुशासने परिलक्ष्यते ।

(9) अनुशासनस्य पालनस्य भावना बाल्यकालादेव प्रवर्तते।

(10) अतः अस्माभिः जीवनस्य न्, प्रत्येके क्षेत्रे अनुशासनस्य पालनम् करणीयम्।

(7) दीपावलिः


(1) दीपावलिः एक: धार्मिक: उत्सवः अस्ति।

(2) दीपावलिः उत्सवः शरत्कालस्य मध्ये भवति।

(3) मनुष्या स्व-स्व गृहाणि गोमयेन, मृत्तिकया, सुधया वा निर्दोषाणि कुर्वन्ति।

(4) श्रुयते यद् अयम् मुख्य-रूपेण वैश्यानाम् उत्सवः अस्ति।

(5) अस्मिन्दि ने सर्वे जनाः प्रसन्नाः भवन्ति ।

(6) गृहे-गृहे मिष्ठानानां निर्माणं भवति।

(7) सर्वे लक्ष्मीपूजनं कुर्वन्ति।

(8) सर्वाणि भवनानि सुन्दराणि राजन्ते।

(9) दीपावलिः प्रकाशस्य उत्सवः अस्ति।

(10) रात्रौ दीपकानाम् आभा सर्वेषाम् मनांसि हरति।

Leave a Reply

Your email address will not be published. Required fields are marked *