MP Board Class 10 Sanskrit Nibandh : संस्कृत निबंध
निबन्धलेखन प्रकरण
१. अनुशासनम्
समाजे नियमानां पालनम् अनुशासनं भवति। जीवने अनुशासनस्य विशेष महत्त्वं भवति। प्रत्येके पदे अनुशासनम् आवश्यकं भवति। अनुशासनं विना किमपि कार्य सफलं न भवति। छात्रेभ्यः अनुशासनं परमावश्यकम् अस्ति। अनुशासितः सर्वेभ्यः प्रियः भवति। सामाजिकव्यवस्थाहेतु अनुशासन अत्यन्तावश्यकम् अस्ति। यस्मिन् समाजे अनुशासनं न भवति तत्र सदैव कलहः भवति। शिक्षकस्य अनुशासने छात्राः निरन्तरं उन्नतिपथे गच्छन्ति। प्रकृतिः अपि ईश्वरस्य अनुशासने तिष्ठति। यः नरः पूर्णतया अनुशासनं पालयति सः स्वजीवने सदा सफलः भवति। अतः अनुशासनस्य पालनं जीवने बहु आवश्यकं भवति।
२. संस्कृतभाषायाः महत्त्वम्
संस्कृत-भाषा अस्माकं देशस्य प्राचीनतमा भाषा अस्ति। प्राचीनकाले सर्वे एव भारतीयाः संस्कृतभाषाया एव व्यवहारं कुर्वन्ति स्म। कालान्तरे विविधाः प्रान्तीयाः भाषाः प्रचलिताः अभवन्, किन्तु संस्कृतस्य महत्त्वम् अद्यापि अक्षुण्णं वर्तते। सर्वे प्राचीनग्रन्थाः चत्वारो वेदाश्च संस्कृतभाषायामेव सन्ति। संस्कृतभाषा भारतराष्ट्रस्य एकताया: आधारः अस्ति। संस्कृतभाषायाः यत्स्वरूपम् अद्य प्राप्यते, तदेव अद्यतः सहस्रवर्षपूर्वम् अपि आसीत्। संस्कृतभाषायाः स्वरूपं पूर्णरूपेण वैज्ञानिक अस्ति। अस्य व्याकरणं पूर्णतः तर्कसम्मतं सुनिश्चितं च अस्ति।
आचार्य-दण्डिना सम्यगेवोक्तम्
“भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।”
अधुनाऽपि सङ्गणकस्य कृते संस्कृतभाषा अति उपयुक्ता अस्ति। संस्कृतभाषैव भारतस्य प्राणभूताभाषा अस्ति। राष्ट्रस्य ऐक्यं च साधयति। भारतीयगौरवस्य रक्षणाय एतस्याः प्रसारः सर्वैरेव कर्त्तव्यः। अतएव उच्चते-‘संस्कृति: संस्कृताश्रिता।’
३. सदाचारः
(आचारः परमो धर्म:/आचारस्य महत्त्वम्)
अस्माकं भारतीया संस्कृति: आचार-प्रधाना अस्ति। आचारः द्विविधः भवति-दुराचारः सदाचार: च। सताम् आचारः सदाचारः इत्युच्यते। सज्जनाः विद्वांसो च यथा आचरन्ति तथैव आचरणं सदाचारो भवति। सज्जनाः स्वकीयानि इन्द्रियाणि वशे कृत्वा सर्वैः सह शिष्टतापूर्वकं व्यवहारं कुर्वन्ति । ते सत्यं वदन्ति, मातुः पितुः गुरुजनानां वृद्धानां ज्येष्ठानां च आदरं कुर्वन्ति, तेषाम् आज्ञां पालयन्ति, सत्कर्मणि प्रवृत्ता भवन्ति।
मग जनस्य समाजस्य राष्ट्रस्य च उन्नत्यै सदाचारस्य महती आवश्यकता वर्तते। सदाचारस्याभ्यासो बाल्यकालादेव भवति। सदाचारेण नरः धार्मिकः, शिष्टो, विनीतो, बुद्धिमान् च भवति। संसारे सदाचारस्यैव महत्त्वं दृश्यते। ये सदाचारिणः भवन्ति, ते एव सर्वत्र आदरं लभन्ते। यस्मिन् देशे जनाः सदाचारिणो भवन्ति तस्यैव सर्वत: उन्नतिर्भवति। अतएव महर्षिभिः “आचारः परमो धर्मः” इत्युच्यते। सदाचारी जनः परदारेषु मातृवत् परधनेषु लोष्ठवत्, सर्वभूतेषु च आत्मवत् पश्यति। सदाचारीजनस्य शीलम् एव परमं भूषणम् अस्ति।
४. महाकविः कालिदासः
(मम प्रियः कविः)
महाकविः कालिदास: मम प्रियः कविः अस्ति। सः संस्कृतभाषायाः श्रेष्ठतमः कविः अस्ति। यादृशः रस-प्रवाहः कालिदासस्य काव्येषु विद्यते तादृशः अन्यत्र नास्ति। सः कविकुलशिरोमणिः अस्ति। कालिदासेन त्रीणिनाटकानि, (मालविकाग्निमित्रम्, विक्रमोर्वशीयम्, अभिज्ञानशाकुन्तलम् च) द्वे महाकाव्ये (रघुवंशम् कुमारसम्भवं च) द्वे गीतिकाव्ये (मेघदूतम् ऋतुसंहारम् च) च रचितानि।
कालिदासस्य लोकप्रियतायाः कारणं तस्य प्रसादगुणयुक्ता ललिता शैली अस्ति। कालिदासस्य प्रकृतिचित्रणं अतीवरम्यम् अस्ति। चरित्रचित्रणे कालिदासः अतीव पटुः अस्ति। कालिदासः महाराजविक्रमादित्यस्य सभाकविः आसीत्। अनुमीयते यत्तस्य जन्मभूमिः उज्जयिनी आसीत्। मेघदूते उज्जयिन्याः भव्यं वर्णन विद्यते। कालिदासस्य कृतिषु कृत्रिमतायाः अभावः अस्ति। कालिदासस्य उपमा प्रयोगः अपूर्वः। अतः साधूच्यते-‘उपमा कालिदासस्य।’
५. अस्माकं देशः
भारतवर्षः अस्माकं देशः अस्ति। अस्य भूमिः विविधरत्नानां जननी अस्ति। अस्य प्राकृतिकी शोभा अनुपमा अस्ति। हिमालयः अस्य प्रहरी अस्ति। एषः उत्तरे मुकुटमणिः इव शोभते। सागरः अस्य चरणौ प्रक्षालयति। अनेकाः पवित्रतमा: नद्यः अत्र वहन्ति। गङ्गा, गोदावरी, सरस्वती, यमुनाः प्रभृतयः नद्यः अस्य शोभां वर्द्धयन्ति। अयं देश: सर्वासां विद्यानां केन्द्रम् अस्ति। अयं अनेकप्रदेशेषु विभक्तः। अत्र विविध. धर्मावलम्बिनः सम्प्रदायिनः जनाः निवसन्ति। अस्य संस्कृतिः धर्मपरम्परा च श्रेष्ठा अस्ति। अयं भू-स्वर्गः अपि वर्तते। ईश्वरस्य अवताराः अस्मिन् देशे सञ्जाताः। सङ्कटकाले वयं क्षुद्रभेदान् परित्यज्य देशहितं चिन्तयामः।
विशालं भूमण्डलं व्याप्य अयं देशः एशियामहाद्वीपस्य अन्यतमः राष्ट्रः सञ्जातः। वयं सदा स्वराष्ट्रस्य रक्षां कर्तुम् उद्यताः स्याम। कथितमस्ति-“जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।”
६. दीपावलिः (उत्सवः)
भारतवर्षे अनेके उत्सवाः भवन्ति। तेषु उत्सवेषु दीपावलिः एकः मुख्यः धार्मिकः उत्सवः अस्ति। दीपावलिः कार्तिकमासे कृष्णपक्षे अमावस्यायां भवति। मनुष्याः गृहाणि सुधया अङ्गनं च गोमयेन लिम्पन्ति । जनाः रात्रौ तैलैः वर्तिकाभिः च पूर्णान् दीपान् प्रज्वालयन्ति। ते धनदेव्याः लक्ष्म्याः पूजनं कुर्वन्ति। दीपैः नगरं प्रकाशितं भवति। बालाः बहुप्रकारकैः स्फोटकैः मनोविनोदयन्ति। दीपावलीसमये वणिजोऽपि स्वान् आपणान् बहुविधं सज्जयन्ति। विद्युद्दीपकानां प्रकाश: आपणेषु नितरां शोभते । नानाविधानि वस्तूनि क्रयविक्रयार्थं प्रसारितानि भवन्ति। अयं कालः नात्युष्णो नाप्यातिशीतो भवति। तेन मोदन्तेऽस्मिन् महोत्सवे नरा: नार्यश्च ।
७. मम दिनचर्या
प्रत्येकमानवस्य दिनचर्या पृथक् भवति। अहम् एकः छात्रः अस्मि। अहम् इन्दौरनगरे निवसामि दशम-कक्षायां च पठामि। अहं प्रतिदिनं प्रातः पञ्चवादने उत्तिष्ठामि। अहं दुग्धस्य एकं चषकं पिबामि। अहं स्वमित्ररामचन्द्रेण सह भ्रमणाय गच्छामि। भ्रमणानन्तरम् अहं स्नानं करोमि। स्नात्वा विद्यालयं गच्छामि। विद्यालये प्रार्थना-घण्टिका भवति। सर्वैः छात्रैः सह प्रार्थनां कृत्वा स्वकक्षायां प्रत्यागच्छामि। तदनन्तरं कक्षायाम् अध्ययनं करोमि।
अर्धावकाशे मित्रेण सह भोजनं करोमि। पूर्णे अवकाशे जाते द्विचक्रिकां गृहीत्वा स्वगृहम् आगच्छामि। विश्रामं कृत्वा पाठशालायाः गृहकार्यं करोमि। सायङ्काले अहं क्रीडामि। तदनन्तरम् अहम् अधीतपाठानां पुनः अभ्यासं करोमि। अहं भोजनं कृत्वा दूरदर्शनं पश्यामि। दशवादने शयनाय गच्छामि। एषा भवति मम दिनचर्या।
८. विद्यार्थीजीवनम् (अथवा छात्रजीवनम्)
छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला च वर्तते। समस्तजीवनस्य विकासस्य ह्रासस्य वा कारणम् एतज्जीवनमेवास्ति। वस्तुतः विद्यार्थिजीवनं साधनामयं जीवनम्। अध्ययनं परमं तप उच्यते।
छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते। यः छात्रः आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययनं करोति स एव साफल्यं लभते। अतएव छात्रैः प्रात:काले ब्रह्ममुहूर्ते एव उत्थातव्यम्। कस्मैचित् कालाय भ्रमणाय अनिवार्यम्। ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययनं कर्त्तव्यम्। तदान्तरं च लघुसात्विकं भोजनं दुग्धं च गृहीत्वा विद्यालयं गन्तव्यम्। तत्र गत्वा गुरुन् नत्वा अध्ययनं कर्त्तव्यम्। छात्रैः असत्यवादनं न कदापि कर्त्तव्यम्।
छात्रजीवनं पूर्णतः अनुशासनबद्धं भवति। विद्यार्थीजीवने एव समस्तानां मानवोचितगुणानां विकासः भवति। छात्र एव राष्ट्रस्ययानुपमा निधिरस्ति। अतः छात्राणां शारीरिकं चारित्रिकं च विकासं अत्यन्तानिवार्यम्। विद्यार्थिजीवनमेव सम्पूर्णागामिजीवनस्य आधारशिला। अतः तेषां सम्यक् रक्षणं, पोषणम् च कर्त्तव्यम्।